21, జూన్ 2019, శుక్రవారం

                   ब्रह्मण: स्तुति: ।
हिरण्यगर्भं ब्रह्माणं, विरिंचिं कमलासनम् ।
प्रजापतिं सुरज्येष्ठम् , वन्दे(अ)हम् परमेष्ठिनम् ।।  ( नमामि चतुराननम् ।। )
पितामहं चात्मभुवम् , लोकेशं च स्वयम्भुवम् ।
धातारमब्जयोनिं च, नमामि चतुराननम् ।। ( वन्दे(अ)हम् परमेष्ठिनम् || )
विश्वसृजं विधातारं, स्रष्टारं वेधसं विधिम् ।
शतघृतिमजं वन्दे, शतानन्दं विरिंचनम् ।।
नमामि नाभिजन्मानम् , विरिंचं कमलोद्भवम् ।
 सदानन्दं रजोमूर्तिम् , सत्यकं हंसवाहनम् ।।
हैमाण्डजं च सृष्ट्यादौ, प्रलये(अ)प्यमरं तथा ।
पुरातनं च सर्वेषाम् , नमामि द्रुहिणं सदा ।।


కామెంట్‌లు లేవు:

కామెంట్‌ను పోస్ట్ చేయండి