6, సెప్టెంబర్ 2015, ఆదివారం

अनामकोऽयम् पुरुषो ग्रामसिंहस्सुनिश्चितः ।
भषन् धावति पश्चात्तु अग्रे दूरम् पलायते ॥
विष्णुपादोद्भवा गङ्गा शिवेन शिरसि धृता ।
मन्दाकिनी सा स्वर्लोके भुवि भागीरथी श्रुता ॥
मायावृतोऽहमंशोस्मि सच्चिदानन्दतेजसः ।
अज्ञानादेव चात्मानं जानामि  पृथगात्मनः ॥
सर्वतः पृथगात्मानं जानाम्यज्ञानमोहितः ॥
   

కామెంట్‌లు లేవు:

కామెంట్‌ను పోస్ట్ చేయండి